தமிழில் சிவாநந்த லஹரி Shivananda Lahari in Latin Script रचन: आदि शङ्कराचार्य कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः- फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे । शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्- भवाभ्याम् आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ॥ 1 ॥ गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजो दलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम् दिशन्ती संसार-भ्रमण-परिताप-उपशमनं वसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2 त्रयी-वेद्यं हृद्यं त्रि-पुर-हरम् आद्यं त्रि-नयनं जटा-भारोदारं चलद्-उरग-हारं मृग धरम् […]