Mahalakshmi Ashtakam in Latin Script தமிழில் மஹாலக்ஷ்மி அஷ்டகம் नमस्तेऽस्तुमहामायेश्रीपीठेसुरपूजिते। शङ्खचक्रगदाहस्तेमहालक्ष्मिनमोऽस्तुते॥१॥ नमस्तेगरुडारूढेकोलासुरभयंकरि। सर्वपापहरेदेविमहालक्ष्मिनमोऽस्तुते॥२॥ सर्वज्ञेसर्ववरदेसर्वदुष्टभयंकरि। सर्वदुःखहरेदेविमहालक्ष्मिनमोऽस्तुते॥३॥ सिद्धिबुद्धिप्रदेदेविभुक्तिमुक्तिप्रदायिनि। मन्त्रमूर्तेसदादेविमहालक्ष्मिनमोऽस्तुते॥४॥ आद्यन्तरहितेदेविआद्यशक्तिमहेश्वरि। योगजेयोगसम्भूतेमहालक्ष्मिनमोऽस्तुते॥५॥ स्थूलसूक्ष्ममहारौद्रेमहाशक्तिमहोदरे। महापापहरेदेविमहालक्ष्मिनमोऽस्तुते॥६॥ पद्मासनस्थितेदेविपरब्रह्मस्वरूपिणि। परमेशिजगन्मातर्महालक्ष्मिनमोऽस्तुते॥७॥ श्वेताम्बरधरेदेविनानालङ्कारभूषिते। जगत्स्थितेजगन्मातर्महालक्ष्मिनमोऽस्तुते॥८॥ महालक्ष्म्यष्टकंस्तोत्रंयःपठेद्भक्तिमान्नरः। सर्वसिद्धिमवाप्नोतिराज्यंप्राप्नोतिसर्वदा॥९॥ एककालेपठेन्नित्यंमहापापविनाशनम्। द्विकालंयःपठेन्नित्यंधनधान्यसमन्वितः॥१०॥ त्रिकालंयःपठेन्नित्यंमहाशत्रुविनाशनम्। महालक्ष्मिर्भवेन्नित्यंप्रसन्नावरदाशुभा॥११॥