தமிழில் காளிகாஷ்டகம் kalikashtakam in Latin Script श्रीकालिकाष्टकम् :- धयानम् गलद् रक्तमण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥ भजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव । सुमध्याsपि तुङ्गस्तनाभारनम्रा लसद् रक्तसृक्कद्वया सुस्मितास्या ॥२॥ शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची । शवाकारमञ्चाधिरूढा शिवाभि–श्चतुर्दिक्षशब्दायमानाsभिरेजे ॥३॥ स्तुति: विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन् समाराध्य कालीं प्रधाना बभूवु: । अनादिं सुरादिं […]