தமிழில் பால முகுந்தாஷ்டகம் Bala Mukundashtakam in Latin Script करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ १ ॥ संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ॥ २ ॥ इंदीवरश्यामलकोमलांगम् इंद्रादिदेवार्चितपादपद्मम् । संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ ३ ॥ लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् । बिंबाधरं चारुविशालनेत्रं बालं […]