॥ श्रीसिद्धिविनायकस्तोत्रम् ॥ जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् । स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥ प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः । यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥ विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् । त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥ त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव । देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ […]