सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥ धूम्र केतुः गणाध्यक्षो फालचन्द्रो गजाननः । वक्रतुण्ड श्शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ 2 ॥ षोडशैतानि नामानि यः पठेत् शृणु यादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥