Govindashtakam in Latin Script தமிழில் கோவிந்தாஷ்டகம் रचन: आदि शंकराचार्य सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् । गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् । मायाकल्पितनानाकारमनाकारं भुवनाकारम् । क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ १ ॥ मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् । व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् । लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ २ ॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् । कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् । शैवं केवलशांतं […]