॥ श्रीललिता त्रिशती पूर्व पीठिका ॥ अगस्त्य उवाच — हयग्रीव दया सिन्धो भगवन् शिष्य वत्सल । त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्तितत् ॥ १ ॥ रहस्य नाम साहस्रमपि त्वत्तः श्रुतं मय । इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २ ॥ तथापि मम चित्तस्य पर्याप्तिर्नैव जायते। कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३ ॥ किमिदं कारणं ब्रूहि […]