श्रीगणेशाय नमः ॥ ओङ्कारजपरतानामोङ्कारार्थं मुदा विवृण्वानम् । ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चद्रमौलीशम् ॥ १॥ नम्रसुरासुरनिकरं नलिनाहङ्कारहारिपदयुगलम् । नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥ २॥ சந்த்ரமௌலீஶஸ்தோத்ரம் in tamil Chandramoulishastotram in Latin Script मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते । मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चद्रमौलीशम् ॥ ३॥ शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् । नतमतिदानधुरीणं सततं प्रणमामि चद्रमौलीशम् ॥ ४॥ वाचो विनिवर्तते यस्मादप्राप्य सह हृदैवेति । गीयन्ते श्रुतिततिभिस्तमहं […]