Skip to content
Slokas and Mantras
  • Slokas List
  • Temples of Tamilnadu
  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Special Slokas and Mantras
  • Vishnu
  • Soundarya Lahari
Sahasranamam / Vishnu

विष्णु सहस्रनाम स्तोत्रम्

- March 12, 2014June 27, 2017 - K Narayanan

Click here for Sanskrit Script

Click here for Tamil Script

रचनः वॅद व्यास 

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायॆत् सर्व विघ्नॊपशान्तयॆ ॥ 1 ॥

यस्य–द्विरद–वक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सॆनं तमाश्रयॆ ॥ 2 ॥

व्यासं वसिष्ठ नप्तारं शक्तॆः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दॆ शुकतातं तपॊनिधिम् ॥ 4 ॥

व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवॆ ।
नमॊ वै ब्रह्मनिधयॆ वासिष्ठाय नमॊ नमः ॥ 5 ॥

अविकाराय शुद्धाय नित्याय परमात्मनॆ ।
सदैक रूप रूपाय विष्णवॆ सर्वजिष्णवॆ ॥ 6 ॥

यस्य स्मरणमात्रॆण जन्म संसार बन्धनात् ।
विमुच्यतॆ नमस्तस्मै विष्णवॆ प्रभविष्णवॆ ॥ 7 ॥

ॐ नमॊ विष्णवॆ प्रभविष्णवॆ ।

श्री वैशम्पायन उवाच
श्रुत्वा धर्मा नशॆषॆण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरॆवाभ्य भाषत ॥ 8 ॥

युधिष्ठिर उवाच
किमॆकं दैवतं लॊकॆ किं वा‌உप्यॆकं परायणं
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्–मानवाः शुभम् ॥ 9 ॥

कॊ धर्मः सर्वधर्माणां भवतः परमॊ मतः ।
किं जपन्–मुच्यतॆ जन्तुर्–जन्मसंसार बन्धनात् ॥ 10 ॥

श्री भीष्म उवाच
जगत्प्रभुं दॆवदॆव मनन्तं पुरुषॊत्तमम् ।
स्तुवन्नाम सहस्रॆण पुरुषः सततॊत्थितः ॥ 11 ॥

तमॆव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमॆव च ॥ 12 ॥

अनादि निधनं विष्णुं सर्वलॊक महॆश्वरम् ।
लॊकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगॊ भवॆत् ॥ 13 ॥

ब्रह्मण्यं सर्व धर्मज्ञं लॊकानां कीर्ति वर्धनम् ।
लॊकनाथं महद्भूतं सर्वभूत भवॊद्भवम्॥ 14 ॥

ऎष मॆ सर्व धर्माणां धर्मॊ‌உधिक तमॊमतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चॆन्नरः सदा ॥ 15 ॥

परमं यॊ महत्तॆजः परमं यॊ महत्तपः ।
परमं यॊ महद्–ब्रह्म परमं यः परायणम् । 16 ॥

पवित्राणां पवित्रं यॊ मङ्गलानां च मङ्गलम् ।
दैवतं दॆवतानां च भूतानां यॊ‌உव्ययः पिता ॥ 17 ॥

यतः सर्वाणि भूतानि भवन्त्यादि युगागमॆ ।
यस्मिंश्च प्रलयं यान्ति पुनरॆव युगक्षयॆ ॥ 18 ॥

तस्य लॊक प्रधानस्य जगन्नाथस्य भूपतॆ ।
विष्णॊर्नाम सहस्रं मॆ श्रुणु पाप भयापहम् ॥ 19 ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः पऋगीतानि तानि वक्ष्यामि भूतयॆ ॥ 20 ॥

ऋषिर्नाम्नां सहस्रस्य वॆदव्यासॊ महामुनिः ॥
छन्दॊ‌உनुष्टुप् तथा दॆवॊ भगवान् दॆवकीसुतः ॥ 21 ॥

अमृतां शूद्भवॊ बीजं शक्तिर्–दॆवकि नन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थॆ विनियुज्यतॆ ॥ 22 ॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महॆश्वरम् ॥
अनॆकरूप दैत्यान्तं नमामि पुरुषॊत्तमम् ॥ 23 ॥

पूर्वन्यासः
अस्य श्री विष्णॊर्दिव्य सहस्रनाम स्तॊत्र महामन्त्रस्य ॥
श्री वॆद व्यासॊ भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्री महाविष्णुः परमात्मा श्रीमन्नारायणॊ दॆवता ।
अमृतां शूद्भवॊ भानुरिति बीजम् ।
दॆवकी नन्दनः स्रष्टॆति शक्तिः ।
उद्भवः, क्षॊभणॊ दॆव इति परमॊमन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शाङ्ग धन्वा गदाधर इत्यस्त्रम् ।
रथाङ्ग पाणि रक्षॊभ्य इति नॆत्रम् ।
त्रिसामा सामगः सामॆति कवचम् ।
आनन्दं परब्रह्मॆति यॊनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥
श्री विश्वरूप इति ध्यानम् ।
श्री महाविष्णु प्रीत्यर्थॆ सहस्र नाम जपॆ विनियॊगः ।

करन्यासः
विश्वं विष्णुर्–वषट्कार इत्यङ्गुष्ठाभ्यां नमः
अमृतां शूद्भवॊ भानुरिति तर्जनीभ्यां नमः
ब्रह्मण्यॊ ब्रह्मकृत् ब्रह्मॆति मध्यमाभ्यां नमः
सुवर्णबिन्दु रक्षॊभ्य इति अनामिकाभ्यां नमः
निमिषॊ‌உनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः
रथाङ्गपाणि रक्षॊभ्य इति करतल करपृष्ठाभ्यां नमः

अङ्गन्यासः
सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसॆ स्वाहा
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट्
त्रिसामा सामगस्सामॆति बलाय कवचाय हुं
रथाङ्गपाणि रक्षॊभ्य इति नॆत्राभ्यां वौषट्
शाङ्गधन्वा गदाधर इति वीर्याय अस्त्रायफट्
ऋतुः सुदर्शनः काल इति दिग्भन्धः

ध्यानम्
क्षीरॊधन्वत् प्रदॆशॆ शुचिमणि विलसत् सैकतॆ मौक्तिकानाम् ।
मालाक्लुप्ता सनस्थः स्फटिकमणि निभैर्–मौक्तिकैर्–मण्डिताङ्गः ।
शुभ्रैरभ्रै रदभ्रै रुपरिविरचितैर्–मुक्त पीयूष वर्षैः
आनन्दी नः पुनीया दरिनलिन गदा शङ्खपाणिर्–मुकुन्दः ॥ 1 ॥

भूः पादौ यस्य नाभिर्–वियदसुर निलश्चन्द्र सूर्यौ च नॆत्रॆ ।
कर्णावाशाः शिरॊद्यौर्–मुखमपि दहनॊ यस्य वास्तॆय मब्धिः ।
अन्तस्थं यस्य विश्वं सुर नरखगगॊ भॊगि गन्धर्व दैत्यैः ।
चित्रं रं रम्यतॆ तं त्रिभुवन वपुशं विष्णुमीशं नमामि ॥ 2 ॥

ॐ नमॊ भगवतॆ वासुदॆवाय !

शान्ताकारं भुजगशयनं पद्मनाभं सुरॆशम् ।
विश्वाधारं गगन सदृशं मॆघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं यॊगि हृद्ध्यान गम्यम् ।
वन्दॆ विष्णुं भव भय हरं सर्व लॊकैक नाथम् ॥ 3 ॥

मॆघ श्यामं पीत कौशॆय वासं श्रीवत्साकं कौस्तुभॊद्भासिताङ्गम् ।
पुण्यॊपॆतं पुण्डरीकायताक्षं विष्णुं वन्दॆ सर्वलॊकैक नाथम्॥ 4 ॥

नमः समस्त भूतानाम् आदि भूताय भूभृतॆ ।
अनॆकरूप रूपाय विष्णवॆ प्रभविष्णवॆ ॥ 5॥

सशङ्खचक्रं सकिरीट कुण्डलं सपीतवस्त्रं सरसीरुहॆक्षणम् ।
सहार वक्षःस्थल शॊभि कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् । 6॥

छायायां पारिजातस्य हॆमसिंहासनॊपरि
आसीनमम्बुदश्याम मायताक्ष मलङ्कृतम् ॥ 7 ॥

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रयॆ ॥ 8 ॥

पञ्चपूज
लं – पृथिव्यात्मनॆ गन्थं समर्पयामि
हं – आकाशात्मनॆ पुष्पैः पूजयामि
यं – वाय्वात्मनॆ धूपमाघ्रापयामि
रं – अग्न्यात्मनॆ दीपं दर्शयामि
वं – अमृतात्मनॆ नैवॆद्यं निवॆदयामि
सं – सर्वात्मनॆ सर्वॊपचार पूजा नमस्कारान् समर्पयामि

स्तॊत्रम्

हरिः ॐ

विश्वं विष्णुर्–वशट्कारॊ भूतभव्य भवत् प्रभुः ।
भूतकृद् भूतभृद्–भावॊ भूतात्मा भूत भावनः ॥ 1 ॥

पूतात्मा परमात्मा च मुक्तानां परमागतिः ।
अव्ययः पुरुषः साक्षी क्शॆत्रज्ञॊ‌உक्षर ऎव च ॥ 2 ॥

यॊगॊ यॊग विदां नॆता प्रधान पुरुषॆश्वरः ।
नारसिंहवपुः श्रीमान् कॆशवः पुरुषॊत्तमः ॥ 3 ॥

सर्वः शर्वः शिवः स्थ्राणुर्–भूतादिर्–निधिरव्ययः ।
सम्भवॊ भावनॊ भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षॊ महास्वनः ।
अनादि निधनॊ धाता विधाता धातुरुत्तमः ॥ 5 ॥

अप्रमॆयॊ हृषीकॆशः पद्मनाभॊ‌உमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरॊ ध्रुवः ॥ 6 ॥

अग्राह्यः शाश्वतॊ कृष्णॊ लॊहिताक्षः प्रतर्दनः ।
प्रभूत–स्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 7 ॥

ईशानः प्राणदः प्राणॊ ज्यॆष्ठः श्रॆष्ठः प्रजापतिः ।
हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः ॥ 8 ॥

ईश्वरॊ विक्रमीधन्वी मॆधावी विक्रमः क्रमः ।
अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ 9 ॥

सुरॆशः शरणं शर्म विश्वरॆताः प्रजाभवः ।
अह–स्संवत्सरॊ व्यालः प्रत्ययः सर्व दर्शनः ॥ 10 ॥

अज–स्सर्वॆश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषा कपिरमॆयात्मा सर्वयॊग विनिसृतः ॥ 11 ॥

वसुर्–वसुमनाः सत्यः समात्मा–स्सम्मितः समः ।
अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः ॥ 12 ॥

रुद्रॊ बहुशिरा बभ्रुर्–विश्वयॊनिः शुचिश्रवाः ।
अमृतः शाश्वत स्थाणुर्–वरारॊहॊ महातपाः ॥ 13 ॥

सर्वगः सर्व विद्भानुर्–विष्वक्सॆनॊ जनार्दनः ।
वॆदॊ वॆद विदव्यङ्गॊ वॆदाङ्गॊ वॆदवित्–कविः ॥ 14 ॥

लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्–व्यूहः चतुर्दंष्ठ्रः चतुर्भुजः ॥ 15 ॥

भ्राजिष्नुर्–भॊजनं भॊक्ता सहिष्नुर्–जगदादिजः ।
अनघॊ विजयॊ जॆता विश्वयॊनिः पुनर्वसुः ॥ 16 ॥

उपॆन्द्रॊ वामनः प्रांशुरमॊघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गॊ धृतात्मा नियमॊ यमः ॥ 17 ॥

वॆद्यॊ वैद्यः सदायॊगी वीरहा माधवॊ मधुः ।
अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः ॥ 18 ॥

महाबुद्धिर्–महावीर्यॊ महाशक्तिर्–महाद्युतिः ।
अनिर्–दॆश्यवपुः श्रीमानमॆयात्मा महाद्रि धृक्ः ॥ 19 ॥

महॆश्वासॊ महीभर्ता श्रीनिवासः सताङ्गतिः ।
अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदां पतिः ॥ 20 ॥

मरीचिर्–दमनॊ हंसः सुपर्नॊ भुजगॊत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 21 ॥

अमृत्युः सर्वदृक्–सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥

गुरुर्–गुरुतमॊ धामः सत्य–स्सत्य पराक्रमः ।
निमिषॊ‌உनिमिषः स्रग्वी वाचस्पति रुदारधीः ॥ 23 ॥

अग्रणीः ग्रामणीः श्रीमान् न्यायॊनॆता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 24 ॥

आवर्तनॊ निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तकॊ वह्नि–रनिलॊ धरणीधरः ॥ 25 ॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्–विश्वभुग्–विभुः ।
सत्कर्ता सत्कृतः साधुर्–जह्नुर्–नारायणॊ नरः ॥ 26 ॥

असङ्ख्यॆयॊ‌உप्रमॆयात्मा विशिष्टः शिष्ट कृच्छुचिः ।
सिद्धार्थः सिद्ध सङ्कल्पः सिद्धिदः सिद्धि साधनः ॥ 27 ॥

वृषाही वृषभॊ विष्णुर्–वृषपर्वा वृषॊदरः ।
वर्धनॊ वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28 ॥

सुभुजॊ दुर्धरॊ वाग्मी महॆन्द्रॊ वसुदॊ वसुः ।
नैकरूपॊ बृहद्–रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥

ऒजस्तॆजॊ द्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरॊ मन्त्र–श्चन्द्रांशुर्–भास्करद्युतिः ॥ 30 ॥

अमृतां शूद्भवॊ भानुः शशबिन्दुः सुरॆश्वरः ।
औषधं जगतः सॆतुः सत्यधर्म पराक्रमः ॥ 31 ॥

भूतभव्य भवन्नाथः पवनः पावनॊ‌உनलः ।
कामहा कामकृत्–कान्तः कामः कामप्रदः प्रभुः ॥ 32 ॥

युगादि कृद्युगावर्तॊ नैकमायॊ महाशनः ।
अदृश्यॊ व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 33 ॥

इष्टॊ‌உविशिष्टः शिष्टॆष्टः शिखण्डी नहुषॊ वृषः ।
क्रॊधहा क्रॊध कृत्कर्ता विश्वबाहुर्–महीधरः ॥ 34 ॥

अच्युतः प्रथितः प्राणः प्राणदॊ वासवानुजः ।
अपां निधिरधिष्ठान मप्रमत्तः प्रतिष्ठितः ॥ 35 ॥

स्कन्दः स्कन्दधरॊ धुर्यॊ वरदॊ वायुवाहनः ।
वासुदॆवॊ बृहद्–भानुरादिदॆवः पुरन्धरः ॥ 36 ॥

अशॊकस्तारण स्तारः शूरः शौरिर्–जनॆश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्म निभॆक्षणः ॥ 37 ॥

पद्मनाभॊ‌உरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्धिर्–ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः ॥ 38 ॥

अतुलः शरभॊ भीमः समयज्ञॊ हविर्हरिः ।
सर्वलक्षण लक्षण्यॊ लक्ष्मीवान् समितिञ्जयः ॥ 39 ॥

विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्–दामॊदरः सहः ।
महीधरॊ महाभागॊ वॆगवान मिताशनः ॥ 40 ॥

उद्भवः, क्षॊभणॊ दॆवः श्रीगर्भः परमॆश्वरः ।
करणं कारणं कर्ता विकर्ता गहनॊ गुहः ॥ 41 ॥

व्यवसायॊ व्यवस्थानः संस्थानः स्थानदॊ ध्रुवः ।
पर्धिः परमस्पष्टः तुष्टः पुष्टः शुभॆक्षणः ॥ 42 ॥

रामॊ विरामॊ विरजॊ मार्गॊनॆयॊ नयॊ‌உनयः ।
वीरः शक्तिमतां श्रॆष्ठॊ धर्मॊधर्म विदुत्तमः ॥ 43 ॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नॊ व्याप्तॊ वायुरधॊक्षजः ॥ 44 ॥

ऋतुः सुदर्शनः कालः परमॆष्ठी परिग्रहः ।
उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः ॥ 45 ॥

विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थॊ‌உनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः ॥ 46 ॥

अनिर्विण्णः स्थविष्ठॊ भूद्धर्मयूपॊ महामखः ।
नक्षत्रनॆमिर्–नक्षत्री क्षमः, क्षामः समीहनः ॥ 47 ॥

यज्ञ इज्यॊ महॆज्यश्च क्रतु–स्सत्रं सताङ्गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम् ॥ 48 ॥

सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत् ।
मनॊहरॊ जितक्रॊधॊ वीर बाहुर्–विदारणः ॥ 49 ॥

स्वापनः स्ववशॊ व्यापी नैकात्मा नैककर्मकृत्। ।
वत्सरॊ वत्सलॊ वत्सी रत्नगर्भॊ धनॆश्वरः ॥ 50 ॥

धर्मगुब्–धर्मकृद्–धर्मी सदसत्–क्षरमक्षरम्॥
अविज्ञाता सहस्त्रांशुर्–विधाता कृतलक्षणः ॥ 51 ॥

गभस्तिनॆमिः सत्त्वस्थः सिंहॊ भूत महॆश्वरः ।
आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्–गुरुः ॥ 52 ॥

उत्तरॊ गॊपतिर्–गॊप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद् भॊक्ता कपीन्द्रॊ भूरिदक्षिणः ॥ 53 ॥

सॊमपॊ‌உमृतपः सॊमः पुरुजित् पुरुसत्तमः ।
विनयॊ जयः सत्यसन्धॊ दाशार्हः सात्वतां पतिः ॥ 54 ॥

जीवॊ विनयिता साक्षी मुकुन्दॊ‌உमित विक्रमः ।
अम्भॊनिधिरनन्तात्मा महॊदधि शयॊन्तकः ॥ 55 ॥

अजॊ महार्हः स्वाभाव्यॊ जितामित्रः प्रमॊदनः ।
आनन्दॊ नन्दनॊनन्दः सत्यधर्मा त्रिविक्रमः ॥ 56 ॥

महर्षिः कपिलाचार्यः कृतज्ञॊ मॆदिनीपतिः ।
त्रिपदस्–त्रिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत् ॥ 57 ॥

महावराहॊ गॊविन्दः सुषॆणः कनकाङ्गदी ।
गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्र गदाधरः ॥ 58 ॥

वॆधाः स्वाङ्गॊ‌உजितः कृष्णॊ दृढः सङ्कर्षणॊ‌உच्युतः ।
वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः ॥ 59 ॥

भगवान् भगहा‌உ‌உनन्दी वनमाली हलायुधः ।
आदित्यॊ ज्यॊतिरादित्यः सहिष्नुर्–गतिसत्तमः ॥ 60 ॥

सुधन्वा खण्डपरशुर्–दारुणॊ द्रविणप्रदः ।
दिवस्पृक्–सर्व दृग्वासॊ वाचस्पतिरयॊनिजः ॥ 61 ॥

त्रिसामा सामगः साम निर्वाणं भॆषजं भिषक् ।
सन्यास कृच्छमः शान्तॊ निष्ठा शान्तिः परायणम्। 62 ॥

शुभाङ्गः शान्तिदः स्रष्ठा कुमुदः कुवलॆशयः ।
गॊहितॊ गॊपतिर्–गॊप्ता वृषभाक्षॊ वृषप्रियः ॥ 63 ॥

अनिवर्ती निवृत्तात्मा सङ्क्षॆप्ता क्षॆमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रॆयः श्रीमान् लॊकत्रयाश्रयः ॥ 65 ॥

स्वक्षः स्वङ्गः शतानन्दॊ नन्दिर्–ज्यॊतिर्–गणॆश्वरः ।
विजितात्मा विधॆयात्मा सत्कीर्ति–च्छिन्न संशयः ॥ 66 ॥

उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्थिरः ।
भूशयॊ भूषणॊ भूतिर्–विशॊकः शॊकनाशनः ॥ 67 ॥

अर्चिष्मा नर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः ।
अनिरुद्धॊ‌உप्रतिरथः प्रद्युम्नॊ‌உमित विक्रमः ॥ 68 ॥

कालनॆमिनिहा वीरः शौरिः शूरः जनॆश्वरः ।
त्रिलॊकात्मा त्रिलॊकॆशः कॆशवः कॆशिहा हरिः ॥ 69 ॥

कामदॆवः कामपालः कामी कान्तः कृतागमः ।
अनिर्दॆश्यवपुर्–विष्णुर्–विरॊ‌உनन्तॊ धनञ्जयः ॥ 70 ॥

ब्रह्मण्यॊ ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्–ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रियः ॥ 71 ॥

महाक्रमॊ महाकर्मा महातॆजा महॊरगः ।
महाक्रतुर्–महायज्वा महायज्ञॊ महाहविः ॥ 72 ॥

स्तव्यः स्तवप्रियः स्तॊत्रं स्तुतिः स्तॊता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्य कीर्ति रनामयः ॥ 73 ॥

मनॊजव–स्तीर्थकरॊ वसुरॆता वसुप्रदः ।
वसुप्रदॊ वासुदॆवॊ वसुर्–वसुमना हविः ॥ 74 ॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसॆनॊ यदुश्रॆष्ठः सन्निवासः सुयामुनः ॥ 75 ॥

भूतावासॊ वासुदॆवः सर्वासु निलयॊ‌உनलः ।
दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊ‌உथापराजितः ॥ 76 ॥

विश्वमूर्तिर्–महामूर्तिर्–दीप्तमूर्ति रमूर्तिमान् ।
अनॆक मूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 77 ॥

ऎकॊ नैकः सवः कः किं यत्तत्–पदम नुत्तमम् ।
लॊकबन्धुर्–लॊकनाथॊ माधवॊ भक्तवत्सलः ॥ 78 ॥

सुवर्णवर्णॊ हॆमाङ्गॊ वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यॊ घृता शीरचलश्चलः ॥ 79 ॥

अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृत्।
सुमॆधा मॆधजॊ धन्यः सत्यमॆधा धराधरः ॥ 80 ॥

तॆजॊवृषॊ द्युतिधरः सर्वशस्त्र भृतांवरः ।
प्रग्रहॊ निग्रहॊ व्यग्रॊ नैकशृङ्गॊ गदाग्रजः ॥ 81 ॥

चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ।
चतुरात्मा चतुर्भावः चतुर्वॆद विदॆकपात् ॥ 82 ॥

समावर्तॊ‌உनिवृत्तात्मा दुर्जयॊ दुरतिक्रमः ।
दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा ॥ 83 ॥

शुभाङ्गॊ लॊकसारङ्गः सुतन्तुः तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥

उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः ।
अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ 85 ॥

सुवर्णबिन्दु रक्षॊभ्यः सर्ववागी श्वरॆश्वरः ।
महाहृदॊ महागर्तॊ महाभूतॊ महानिधिः ॥ 86 ॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनॊ‌உनिलः ।
अमृताशॊ‌உमृतवपुः सर्वज्ञः सर्वतॊमुखः ॥ 87 ॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रॊधॊ दुम्बरॊ‌உश्वत्थः छाणूरान्ध्र निषूदनः ॥ 88 ॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्ति रनघॊ‌உचिन्त्यॊ भयकृद्–भयनाशनः ॥ 89 ॥

अणुर्–बृहत्–कृशः स्थूलॊ गुणभृन्निर्गुणॊ महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशॊ वंशवर्धनः ॥ 90 ॥

भारभृत्–कथितॊ यॊगी यॊगीशः सर्वकामदः ।
आश्रमः श्रमणः, क्षामः सुपर्णॊ वायुवाहनः ॥ 91 ॥

धनुर्धरॊ धनुर्वॆदॊ दण्डॊ दमयिता दमः ।
अपराजितः सर्वसहॊ नियन्ता‌உनियमॊ‌உयमः ॥ 92 ॥

सत्त्ववान् सात्त्विकः सत्यः सत्य धर्म परायणः ।
अभिप्रायः प्रियार्हॊ‌உर्हः प्रियकृत्–प्रीतिवर्धनः ॥ 93 ॥

विहाय सगतिर्–ज्यॊतिः सुरुचिर्–हुतभुग्विभुः ।
रविर्–विरॊचनः सूर्यः सविता रविलॊचनः ॥ 94 ॥

अनन्तॊ हुतभुग् भॊक्ता सुखदॊ नैकजॊ‌உग्रजः ।
अनिर्विण्णः सदामर्षी लॊकधिष्ठान मद्भुतः ॥ 95 ॥

सनात् सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्–स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशाशनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 97 ॥

अक्रूरः पॆशलॊ दक्षॊ दक्षिणः, क्षमिणां वरः ।
विद्वत्तमॊ वीतभयः पुण्यश्रवण कीर्तनः ॥ 98 ॥

उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः ॥ 99 ॥

अनन्तरूप‌உनन्त श्रीर्–जितमन्युर्–भयापहः ।
चतुरश्रॊ गभीरात्मा विदिशॊ व्यादिशॊ दिशः ॥ 100 ॥

अनादिर्–भूर्भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः ।
जननॊ जनजन्मादिर्–भीमॊ भीम पराक्रमः ॥ 101 ॥

आधार निलयॊ‌உधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्व विदॆकात्मा जन्ममृत्यु जरातिगः ॥ 103 ॥

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञॊ यज्ञपतिर्–यज्वा यज्ञाङ्गॊ यज्ञवाहनः ॥ 104 ॥

यज्ञभृत् यज्ञकृत् यज्ञी यज्ञभुक् यज्ञसाधनः ।
यज्ञान्तकृत् यज्ञ गुह्य मन्नमन्नाद ऎव च ॥ 105 ॥

आत्मयॊनिः स्वयञ्जातॊ वैखानः सामगायनः ।
दॆवकीनन्दनः स्रष्ठा क्षितीशः पापनाशनः ॥ 106 ॥

शङ्खभृन्नन्दकी चक्री शाङ्ग धन्वा गदाधरः ।
रथाङ्गपाणि रक्षॊभ्यः सर्वप्रहरणायुधः ॥ 107 ॥

श्री सर्वप्रहरणायुध ॐ नम इति ।

वनमाली गदी शाङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान्नारायणॊ विष्णुर्–वासुदॆवॊ‌உभिरक्षतु ॥ 108 ॥

उत्तर भागं

फलश्रुतिः
इतीदं कीर्तनीयस्य कॆशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्याना मशॆषॆण प्रकीर्तितम्। ॥ 1 ॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयॆत्॥
नाशुभं प्राप्नुयात् किञ्चित्–सॊ‌உमुत्रॆह च मानवः ॥ 2 ॥

वॆदान्तगॊ ब्राह्मणः स्यात् क्षत्रियॊ विजयी भवॆत् ।
वैश्यॊ धनसमृद्धः स्यात् शूद्रः सुख मवाप्नुयात् ॥ 3 ॥

धर्मार्थी प्राप्नुयाद्धर्म मर्थार्थी चार्थ माप्नुयात् ।
कामान वाप्नुयात् कामी प्रजार्थी चाप्नुयात् प्रजाम्। ॥ 4 ॥

भक्तिमान् यः सदॊत्थाय शुचिः सद्गतमानसः ।
सहस्रं वासुदॆवस्य नाम्नामॆतत् प्रकीर्तयॆत् ॥ 5 ॥

यशः प्राप्नॊति विपुलं याति प्राधान्यमॆव च ।
अचलां श्रियमाप्नॊति श्रॆयः प्राप्नॊत्य नुत्तमम्। ॥ 6 ॥

न भयं क्वचिदाप्नॊति वीर्यं तॆजश्च विन्दति ।
भवत्यरॊगॊ द्युतिमान् बलरूप गुणान्वितः ॥ 7 ॥

रॊगार्तॊ मुच्यतॆ रॊगाद्–बद्धॊ मुच्यॆत बन्धनात् ।
भयान्–मुच्यॆत भीतस्तु मुच्यॆतापन्न आपदः ॥ 8 ॥

दुर्गाण्यतितर त्याशु पुरुषः पुरुषॊत्तमम्। ।
स्तुवन्नाम सहस्रॆण नित्यं भक्ति समन्वितः ॥ 9 ॥

वासुदॆवाश्रयॊ मर्त्यॊ वासुदॆव परायणः ।
सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम्। ॥ 10 ॥

न वासुदॆव भक्ताना मशुभं विद्यतॆ क्वचित् ।
जन्म मृत्यु जराव्याधि भयं नैवॊपजायतॆ ॥ 11 ॥

इमं स्तवमधीयानः श्रद्धाभक्ति समन्वितः ।
युज्यॆतात्म सुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः ॥ 12 ॥

न क्रॊधॊ न च मात्सर्यं न लॊभॊ नाशुभामतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषॊत्तमॆ ॥ 13 ॥

द्वौः स चन्द्रार्क नक्षत्रा खं दिशॊ भूर्महॊदधिः ।
वासुदॆवस्य वीर्यॆण विधृतानि महात्मनः ॥ 14 ॥

ससुरासुर गन्धर्वं सयक्षॊरग राक्षसम् ।
जगद्वशॆ वर्ततॆदं कृष्णस्य स चराचरम्। ॥ 15 ॥

इन्द्रियाणि मनॊबुद्धिः सत्त्वं तॆजॊ बलं धृतिः ।
वासुदॆवात्म कान्याहुः, क्षॆत्रं क्षॆत्रज्ञ ऎव च ॥ 16 ॥

सर्वागमाना माचारः प्रथमं परिकल्पतॆ ।
आचर प्रभवॊ धर्मॊ धर्मस्य प्रभुरच्युतिः ॥ 17 ॥

ऋषयः पितरॊ दॆवा महाभूतानि धातवः ।
जङ्गमा जङ्गमं चॆदं जगन्नारायणॊद्भवम् ॥ 18 ॥

यॊगॊज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च ।
वॆदाः शास्त्राणि विज्ञानमॆतत् सर्वं जनार्दनात् ॥ 19 ॥

ऎकॊ विष्णुर्–महद्–भूतं पृथग्भूता न्यनॆकशः ।
त्रीन्लॊकान् व्याप्य भूतात्मा भुङ्क्तॆ विश्वभुगव्ययः ॥ 20 ॥

इमं स्तवं भगवतॊ विष्णॊर्–व्यासॆन कीर्तितम् ।
पठॆद्य इच्चॆत्–पुरुषः श्रॆयः प्राप्तुं सुखानि च ॥ 21 ॥

विश्वॆश्वरमजं दॆवं जगतः प्रभुमव्ययम्।
भजन्ति यॆ पुष्कराक्षं न तॆ यान्ति पराभवम् ॥ 22 ॥

न तॆ यान्ति पराभवम् ॐ नम इति ।

अर्जुन उवाच
पद्मपत्र विशालाक्ष पद्मनाभ सुरॊत्तम ।
भक्ताना मनुरक्तानां त्राताभव जनार्दन ॥ 23 ॥

श्रीभगवान् उवाच
यॊ मां नाम सहस्रॆण स्तॊतुमिच्छति पाण्डव ।
सॊ‌உहमॆकॆन श्लॊकॆन स्तुत ऎव न संशयः ॥ 24 ॥

स्तुत ऎव न संशय ॐ नम इति ।

व्यास उवाच
वासनाद्–वासुदॆवस्य वासितं भुवनत्रयम् ।
सर्वभूत निवासॊ‌உसि वासुदॆव नमॊस्तुतॆ ॥ 25 ॥

श्रीवासुदॆव नमॊस्तुत ॐ नम इति ।

पार्वत्युवाच
कॆनॊपायॆन लघुना विष्णॊर्–नाम सहस्रकम् ।
पठ्यतॆ पण्डितैर्–नित्यं श्रॊतु मिच्छाम्यहं प्रभॊ ॥ 26 ॥

ईश्वर उवाच
श्रीराम राम रामॆति रमॆ रामॆ मनॊरमॆ ।
सहस्रनाम तत्तुल्यं रामनाम वराननॆ ॥ 27 ॥

श्रीराम नाम वरानन ॐ नम इति ।

ब्रह्मॊवाच
नमॊ‌உस्त्वनन्ताय सहस्रमूर्तयॆ सहस्र पादाक्षि शिरॊरु बाहवॆ ।
सहस्र नाम्नॆ पुरुषाय शाश्वतॆ सहस्रकॊटी युग धारिणॆ नमः ॥ 28 ॥

सहस्र कॊटी युगधारिणॆ नम ॐ नम इति ।

सञ्जय उवाच
यत्र यॊगॆश्वरः कृष्णॊ यत्र पार्थॊ धनुर्धरः ।
तत्र श्रीर्–विजयॊ भूतिर्–ध्रुवा नीतिर्–मतिर्–मम ॥ 29 ॥

श्री भगवान् उवाच
अनन्याश्चिन्त यन्तॊ मां यॆ जनाः पर्युपासतॆ ।
तॆषां नित्याभियुक्तानां यॊगक्षॆमं वहाम्यहम्। ॥ 30 ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्। ।
धर्म संस्थापनार्थाय सम्भवामि युगॆ युगॆ ॥ 31 ॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घॊरॆषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायण शब्दमात्रं विमुक्त दुःखाः सुखिनॊ भवन्ति ॥ 32 ॥

कायॆन वाचा मनसॆन्द्रि यैर्वा बुद्ध्यात्मना वा प्रकृतॆः स्वभावात्
करॊमि यद्यत्–सकलं परस्मै नारायणायॆति समर्पयामि ॥ 33 ॥

Post navigation

லலிதா ஸஹஸ்ரனாம ஸ்தோத்திரம்
விஷ்ணு ஸஹஸ்ரநாம ஸ்தோத்திரம்

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent Posts

  • Jambunathaashtakam
  • ஜம்புநாதாஷ்டகம்
  • जम्बुनाताष्टकम्
  • Chandramoulishastotram
  • சந்த்ரமௌலீஶஸ்தோத்ரம்
  • चन्द्रमौलीशस्तोत्रम्
  • ஸூர்யமண்டலாஷ்டகம்
  • सूर्यमंडलाष्टकं
  • Suryamandalashtakam
  • Soundarya Lahari 4
  • Soundarya Lahari 3
  • Soundarya Lahari 2
  • Soundarya Lahari 1
  • ललिता त्रिशती स्तोत्रम्
  • லலிதா த்ரிஶதீ ஸ்தோத்ரம்

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu

Recent Comments

  • Sundari Bala Sundaram on Slokas List
  • Sundari Bala Sundaram on Slokas List
  • விஜய் on Slokas List
  • Bhavesh Karia on Slokas List
  • AHILA NATESAN on Slokas List

Archives

  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • July 2014
  • June 2014
  • May 2014
  • April 2014
  • March 2014

Meta

  • Register
  • Log in
  • Entries feed
  • Comments feed
  • WordPress.org

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu
Powered by WordPress Theme: X Blog Free by WP Theme Space.