Mahalakshmi Ashtakam in Latin Script
தமிழில் மஹாலக்ஷ்மி அஷ்டகம்
नमस्तेऽस्तुमहामायेश्रीपीठेसुरपूजिते।
शङ्खचक्रगदाहस्तेमहालक्ष्मिनमोऽस्तुते॥१॥
नमस्तेगरुडारूढेकोलासुरभयंकरि।
सर्वपापहरेदेविमहालक्ष्मिनमोऽस्तुते॥२॥
सर्वज्ञेसर्ववरदेसर्वदुष्टभयंकरि।
सर्वदुःखहरेदेविमहालक्ष्मिनमोऽस्तुते॥३॥
सिद्धिबुद्धिप्रदेदेविभुक्तिमुक्तिप्रदायिनि।
मन्त्रमूर्तेसदादेविमहालक्ष्मिनमोऽस्तुते॥४॥
आद्यन्तरहितेदेविआद्यशक्तिमहेश्वरि।
योगजेयोगसम्भूतेमहालक्ष्मिनमोऽस्तुते॥५॥
स्थूलसूक्ष्ममहारौद्रेमहाशक्तिमहोदरे।
महापापहरेदेविमहालक्ष्मिनमोऽस्तुते॥६॥
पद्मासनस्थितेदेविपरब्रह्मस्वरूपिणि।
परमेशिजगन्मातर्महालक्ष्मिनमोऽस्तुते॥७॥
श्वेताम्बरधरेदेविनानालङ्कारभूषिते।
जगत्स्थितेजगन्मातर्महालक्ष्मिनमोऽस्तुते॥८॥
महालक्ष्म्यष्टकंस्तोत्रंयःपठेद्भक्तिमान्नरः।
सर्वसिद्धिमवाप्नोतिराज्यंप्राप्नोतिसर्वदा॥९॥
एककालेपठेन्नित्यंमहापापविनाशनम्।
द्विकालंयःपठेन्नित्यंधनधान्यसमन्वितः॥१०॥
त्रिकालंयःपठेन्नित्यंमहाशत्रुविनाशनम्।
महालक्ष्मिर्भवेन्नित्यंप्रसन्नावरदाशुभा॥११॥