Jul 042017
 

॥ श्रीललिता त्रिशती पूर्व पीठिका ॥
अगस्त्य उवाच —
हयग्रीव दया सिन्धो भगवन् शिष्य वत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्तितत् ॥ १ ॥

रहस्य नाम साहस्रमपि त्वत्तः श्रुतं मय ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २ ॥

तथापि मम चित्तस्य पर्याप्तिर्नैव जायते।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३ ॥

किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्ता प्रणम्य तम् ॥ ४ ॥

सूत उवाच –
समाललंबे तत्पाद युगळं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ ५ ॥

मुंचमुंचेति तं चोक्का चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ ॥ ६ ॥

तष्णी स्थितः स्मरन्नाज्ञां ललितांबाकृतां पुरा ।
प्रणम्य विप्रं समुनिस्तत्पादावत्यजन्स्थितः ॥ ७ ॥

वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ।
तछृंवन्तश्च पश्यंतः सर्वे लोकाः सुविस्मिताः ॥ ८ ॥

तत्र श्रीललितादेवी कामेश्वरसमन्विता ।
प्रादुर्भूता हयग्रीवं रहस्येवमचोदयत् ॥ ९ ॥

श्रीदेवी उवाच –
आश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १० ॥

स्वमातृ जारवत् गोप्या विद्यैषत्यागमा जगुः ।
ततो ऽतिगोपनिया मे सर्वपूर्तिकरी स्तुतिः ॥ ११ ॥

मया कामेश्वरेणापि कृता साङ्गोपिता भृशम् ।
मदाज्ञया वचोदेव्यश्चत्ररर्नामसहस्रकम् ॥ १२ ॥

आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३ ॥

सर्व पूर्तिकरं तस्मादिदं नाम कृतं मया ।
तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४ ॥

पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयञ्च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५ ॥

अमुञ्चमानस्त्वद्वादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्तया हितमेव निदर्शनम् ॥ १६ ॥

चित्तपर्याप्तिरेतस्य नान्यथा संभविष्यती ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७ ॥

सूत उवाच –
इत्युक्तान्तरधदाम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥ १८ ॥

संस्थाप्य निकटेवाच उवाच भृश विस्मितः ।
हयग्रीव उवाच —
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ १९ ॥

त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्रये ।
एनागस्त्य स्वयं देवी तववक्तव्यमन्वशात् ॥ २० ॥

सच्छिष्येन त्वया चाहं दृष्ट्वानस्मि तां शिवाम् ।
यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१ ॥

अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्थवम् ।
यस्य स्मरण मात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२ ॥

रहस्यनाम साह्स्रादपि गुह्यतमं मुने ।
आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥ २३ ॥

तदहं संप्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रामन् मुने ॥ २४ ॥

पृथग्विंशति नामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसंपूर्तिकारणी ॥ २५ ॥

रहस्यादिरहस्यैषा गोपनीया प्रयत्नतः ।
तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६ ॥

केवलं नामबुद्धिस्ते न कार्य तेषु कुम्भज।
मन्त्रात्मकं एतेषां नाम्नां नामात्मतापि च ॥ २७ ॥

तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
सूत उवाच –
इति युक्ता तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८ ॥

॥ इति श्रीललिता त्रिशती स्तोत्र पूर्व पीठिका सम्पूर्णम् ।

॥ न्यासम् ॥
अस्य श्रीललितात्रिशती स्तोत्र महामन्त्रस्य । भगवान् हयग्रीव ऋषिः । अनुष्टप् छन्दः ।
श्रीललितामहात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिः । क्लों कीलकम् । मम
चतुर्विधफलपुरुषार्थ जपे (वा) परायणे विनियोगः॥

ऐं अड्गुष्ठाभ्यां नमः। क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमऽ ऐं अनामिकाभ्यां नमः ।
क्लों कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥

ऐं हृदयाय नमः । क्लों शिरसे स्वाहा । सौः शिखायै वषट । ऐं कवचाय हुं ।
क्लों नेत्रत्रयाय । सौः अस्वाय फट् । भूर्भुवस्सुवर्मिति दिग्बन्धः ॥

॥ ध्यानम्॥
अतिमधुरचापहस्ताम्परिमितामोदसौभाग्याम् ।
अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥

॥ लं इत्यादि पञ्च पूजा ॥
लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्यैः पूजयामि ।
यं वाय्वात्मिकायै श्रीललिताम्बिकायै ।
रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥
॥ अथ श्रीललितात्रिशती स्तोत्रम् ॥
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १॥

कमलाक्षी कल्मषघ्नी करुणामृत सागरा ।
कदम्बकाननावासा कदम्ब कुसुमप्रिया ॥ २॥

कन्दर्पविद्या कन्दर्प जनकापाङ्ग वीक्षणा ।
कर्पूरवीटी सौरभ्य कल्लोलित ककुप्तटा ॥ ३॥

कलिदोषहरा कंजलोचना कम्रविग्रहा ।
कर्मादि साक्षिणी कारयित्री कर्मफलप्रदा ॥ ४॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्द चिदाकृतिः ॥ ५॥

एवमित्यागमाबोध्या चैकभक्ति मदर्चिता ।
एकाग्रचित्त निर्ध्याता चैषणा रहिताद्दृता ॥ ६॥

एलासुगंधिचिकुरा चैनः कूट विनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्य प्रदायिनी ॥ ७॥

एकातपत्र साम्राज्य प्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८॥

एकवीरादि संसेव्या चैकप्राभव शालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थ प्रदायिनी ॥ ९॥

ईद्दृगित्य विनिर्देश्या चेश्वरत्व विधायिनी ।
ईशानादि ब्रह्ममयी चेशित्वाद्यष्ट सिद्धिदा ॥ १०॥

ईक्षित्रीक्षण सृष्टाण्ड कोटिरीश्वर वल्लभा ।
ईडिता चेश्वरार्धाङ्ग शरीरेशाधि देवता ॥ ११॥

ईश्वर प्रेरणकरी चेशताण्डव साक्षिणी ।
ईश्वरोत्सङ्ग निलया चेतिबाधा विनाशिनी ॥ १२॥

ईहाविराहिता चेश शक्ति रीषत् स्मितानना ।
लकाररूपा ललिता लक्ष्मी वाणी निषेविता ॥ १३॥

लाकिनी ललनारूपा लसद्दाडिम पाटला ।
ललन्तिकालसत्फाला ललाट नयनार्चिता ॥ १४॥

लक्षणोज्ज्वल दिव्याङ्गी लक्षकोट्यण्ड नायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५॥

ललामराजदलिका लम्बिमुक्तालताञ्चिता ।
लम्बोदर प्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६॥

ह्रींकार रूपा ह्रींकार निलया ह्रींपदप्रिया ।
ह्रींकार बीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥ १७॥

ह्रींकारजप सुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ १८॥

ह्रींकारवाच्या ह्रींकार पूज्या ह्रींकार पीठिका ।
ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९॥

हकाररूपा हलधृत्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्र वन्दिता ॥ २०॥

हयारूढा सेवितांघ्रिर्हयमेध समर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१॥

हत्यादिपापशमनी हरिदश्वादि सेविता ।
हस्तिकुम्भोत्तुङ्क कुचा हस्तिकृत्ति प्रियांगना ॥ २२॥

हरिद्राकुंकुमा दिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदोल्लसा ॥ २३॥

सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥ २४॥

सर्वानवद्या सर्वाङ्ग सुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्य दात्री सर्वविमोहिनी ॥ २५॥

सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषण भूषिता ॥ २६॥

ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसंजीविनी कल्या कठिनस्तन मण्डला ॥ २७॥

करभोरुः कलानाथ मुखी कचजिताम्भुदा ।
कटाक्षस्यन्दि करुणा कपालि प्राण नायिका ॥ २८॥

कारुण्य विग्रहा कान्ता कान्तिधूत जपावलिः ।
कलालापा कंबुकण्ठी करनिर्जित पल्लवा ॥ २९॥

कल्पवल्ली समभुजा कस्तूरी तिलकाञ्चिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ ३०॥

हारहारि कुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पति समाराध्या हठात्कार हतासुरा ॥ ३१॥

हर्षप्रदा हविर्भोक्त्री हार्द सन्तमसापहा ।
हल्लीसलास्य सन्तुष्टा हंसमन्त्रार्थ रूपिणी ॥ ३२॥

हानोपादान निर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहू मुख स्तुत्या हानि वृद्धि विवर्जिता ॥ ३३॥

हय्यङ्गवीन हृदया हरिकोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४॥

लास्य दर्शन सन्तुष्टा लाभालाभ विवर्जिता ।
लङ्घ्येतराज्ञा लावण्य शालिनी लघु सिद्धिदा ॥ ३५॥

लाक्षारस सवर्णाभा लक्ष्मणाग्रज पूजिता ।
लभ्यतरा लब्ध भक्ति सुलभा लाङ्गलायुधा ॥ ३६॥

लग्नचामर हस्त श्रीशारदा परिवीजिता ।
लज्जापद समाराध्या लंपटा लकुलेश्वरी ॥ ३७॥

लब्धमाना लब्धरसा लब्ध सम्पत्समुन्नतिः ।
ह्रींकारिणी च ह्रींकारी ह्रींमध्या ह्रींशिखामणिः ॥ ३८॥

ह्रींकारकुण्डाग्नि शिखा ह्रींकार शशिचन्द्रिका ।
ह्रींकार भास्कररुचिर्ह्रींकारांभोद चञ्चला ॥ ३९॥

ह्रींकार कन्दाङ्कुरिका ह्रींकारैक परायणाम् ।
ह्रींकार दीर्घिकाहंसी ह्रींकारोद्यान केकिनी ॥ ४०॥

ह्रींकारारण्य हरिणी ह्रींकारावाल वल्लरी ।
ह्रींकार पञ्जरशुकी ह्रींकाराङ्गण दीपिका ॥ ४१॥

ह्रींकार कन्दरा सिंही ह्रींकाराम्भोज भृङ्गिका ।
ह्रींकार सुमनो माध्वी ह्रींकार तरुमंजरी ॥ ४२॥

सकाराख्या समरसा सकलागम संस्तुता ।
सर्ववेदान्त तात्पर्यभूमिः सदसदाश्रया ॥ ४३॥

सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिव कुटुम्बिनी ॥ ४४॥

सकालाधिष्ठान रूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्च निर्मात्री समनाधिक वर्जिता ॥ ४५॥

सर्वोत्तुङ्गा संगहीना सगुणा सकलेश्वरी । सकलेष्टदा
ककारिणी काव्यलोला कामेश्वर मनोहरा ॥ ४६॥

कामेश्वरप्रणानाडी कामेशोत्सङ्ग वासिनी ।
कामेश्वरालिंगितांगी कमेश्वर सुखप्रदा ॥ ४७॥

कामेश्वर प्रणयिनी कामेश्वर विलासिनी ।
कामेश्वर तपः सिद्धिः कामेश्वर मनः प्रिया ॥ ४८॥

कामेश्वर प्राणनाथा कामेश्वर विमोहिनी ।
कामेश्वर ब्रह्मविद्या कामेश्वर गृहेश्वरी ॥ ४९॥

कामेश्वराह्लादकरी कामेश्वर महेश्वरी ।
कामेश्वरी कामकोटि निलया काङ्क्षितार्थदा ॥ ५०॥

लकारिणी लब्धरूपा लब्धधीर्लब्ध वाञ्चिता ।
लब्धपाप मनोदूरा लब्धाहंकार दुर्गमा ॥ ५१॥

लब्धशक्तिर्लब्ध देहा लब्धैश्वर्य समुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवन शालिनी ॥ ५२॥ लब्धबुधिः

लब्धातिशय सर्वाङ्ग सौन्दर्या लब्ध विभ्रमा ।
लब्धरागा लब्धपतिर्लब्ध नानागमस्थितिः ॥ ५३॥ लब्धगति

लब्ध भोगा लब्ध सुखा लब्ध हर्षाभि पूजिता ।
ह्रींकार मूर्तिर्ह्रीण्कार सौधशृंग कपोतिका ॥ ५४॥

ह्रींकार दुग्धाब्धि सुधा ह्रींकार कमलेन्दिरा ।
ह्रींकारमणि दीपार्चिर्ह्रींकार तरुशारिका ॥ ५५॥

ह्रींकार पेटक मणिर्ह्रींकारदर्श बिम्बिता ।
ह्रींकार कोशासिलता ह्रींकारास्थान नर्तकी ॥ ५६॥

ह्रींकार शुक्तिका मुक्तामणिर्ह्रींकार बोधिता ।
ह्रींकारमय सौवर्णस्तम्भ विद्रुम पुत्रिका ॥ ५७॥

ह्रींकार वेदोपनिषद् ह्रींकाराध्वर दक्षिणा ।
ह्रींकार नन्दनाराम नवकल्पक वल्लरी ॥ ५८॥

ह्रींकार हिमवद्गङ्गा ह्रींकारार्णव कौस्तुभा ।
ह्रींकार मन्त्र सर्वस्वा ह्रींकारपर सौख्यदा ॥ ५९॥

॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम् ॥

॥ श्रीललिता त्रिशती उत्तर पीठिका ॥

हयग्रीव उवाच –

इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ १ ॥

शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्तयक्षराणि नामानि कामेशकथितानि च ॥ २ ॥

उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३ ॥

नानेन सदृशं स्तोत्रं श्रीदेवी प्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः॥ ४ ॥

सूत उवाच –

इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलित कलुषोऽभृच्चित्तपर्याप्तिमेत्य ।

निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५ ॥

अगस्त्य उवाच —
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ ६ ॥

उभयोरपि वर्णानि कानि वा वद देशिक।
इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्युनः ॥ ७ ॥

हयग्रीव उवाच –

तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् ।
इदं त्वतिरहस्यं ते वक्ष्यामि कुम्भज ॥ ८॥

एतद्विज्ञनमात्रेण श्रिविद्या सिद्धिदा भवेत् ।
कत्रयं हद्बयं चैव शैवो भागः प्रकीर्तितः ॥ ९ ॥

शक्तयक्षराणि शेषाणिह्रीङ्कार उभयात्मकः ।
एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ १० ॥

न तेशां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥ ११ ॥

नव चक्रैश्ल संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोनं च दशकोणद्बयं तथा ॥ १२ ॥

चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।
बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ १३ ॥

चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दवं श्लिष्टं अष्टारेष्टदलाम्बुजम् ॥ १४ ॥

दशारयोः षोडशारं भूगृहं भुवनाश्रके ।
शैवानामपि शाक्तानां चक्राणां च परस्परं ॥ १५ ॥

अविनाभावसम्बन्धं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणि शक्तिर्बिन्दुरूपपरः शिवः ॥ १६ ॥

अविनाभावसम्बन्धं तस्माद्विन्दुत्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ १७ ॥

न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेऽस्मिन्श्रीविद्याचक्रवेदिनः ॥ १८ ॥

सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयं विद्या विशेषज्ञो विशेषज्ञ समर्चयेत् ॥ १९ ॥

तस्मैः देयं ततो ग्राह्यमशक्तस्तव्यदापयेत्।
अन्धम्तमः प्रविशन्ति ये ऽविद्यां समुपासते ॥ २० ॥

इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ २१ ॥

अश्रुता सश्रुतासश्व यज्चानों येऽप्ययञ्जनः ।
सवर्यन्तो नापेक्षन्ते इन्द्रमग्निश्च ये विदुः ॥ २२ ॥

सिकता इव संयन्ति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यक श्रुतिः ॥ २३ ॥

यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम्।
तेनैव लभ्यते विद्या श्रीमत्पच्चदशाक्षरी ॥ २४ ॥

इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ २५ ॥

न शिल्पदि ज्ञानयुक्ते विद्वच्छव्धः प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ २६ ॥

तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते ।
स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ २७ ॥

स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यमवेद्यपि
विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ २८ ॥

प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज ।
यः कीर्तयेत्सकृत्भक्तया दिव्यनामशतत्रयम् ॥ २९ ॥

तस्य पुण्यमहं वक्ष्ये द्वं कुम्भसंभव ।
रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३०॥

तत्फलं कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ३१ ॥

नान्येन तुलयेदेतत्स्तोत्रेणान्य कृतेन च ।
श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥ ३२ ॥

तेनैव लभ्यते चैतत्पश्चाच्छेयः परीक्षयेत् ।
अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्णयते ॥ ३३ ॥

या स्वयं शिवयोर्वक्तपद्माभ्यां परिनिःसृता ।
नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥ ३४ ॥

अभ्यक्ताम्सितिलतैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च गन्धपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ ३५ ॥

सूपापूपैः शर्कराद्मैः पायसैः फलसंयुतैः ।
विद्याविदो विशेषेण भोजयेत्पोडश द्विजान् ॥ ३६ ॥

एवं नित्यार्चनं कुर्यातादौ ब्राह्मण भोजनम् ।
त्रिशतीनामभिः पश्चाद्वाह्मणान्क्रमशोऽर्चयेत् ॥ ३७ ॥

तैलाभ्यङ्गातिकं दत्वा विभवे सति भक्तितः ।
शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ३८ ॥

दिवसे दिवसे विप्रा भोज्या विम्शतीसङ्ख्यया ।
दशभिः पञ्चभिर्वापि त्रीभिरेकनवा दिनैः ॥ ३९ ॥

त्रिम्शत्पष्टिः शतं विप्राः सम्भोज्यस्तिशतं क्रमात् ।
एवं यः कुरुते भक्तया जन्ममध्ये सकृन्नरः ॥ ४० ॥

तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिराः ।
रहस्यनाम साहस्त्र भोजनेऽप्येव्मेवहि ॥ ४१ ॥

आदौ नित्यबलिं कुर्यात्पश्चाद्वाह्मणभोजनम् ।
रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२ ॥

सशिकराणुरत्रैकनामप्नो महिमवारिधेः ।
वाग्देवीरचिते नामसाहस्ने यद्यदीरितम् ॥ ४३ ॥

तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् ।
एतन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥

तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ।
वाग्देविरचितास्तोत्रे तादृशो महिमा यदि ॥ ४५ ॥

साक्षात्कामेशकामेशी कृते ऽस्मिन्गृहृतामिति ।
सकृत्सन्कीर्तनादेव नाम्नाम्नस्मिव्शतत्रये ॥ ४६ ॥

भवेच्चित्तस्य पर्यप्तिर्न्यूनमन्यानपेक्षिणी ।
न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यश्च कुम्भज ॥ ४७ ॥

यद्यत्साध्यतमं कार्य तत्तदर्थमिदञ्जपेत् ।
तत्तत्फलमवाप्नोति पश्चात्कार्य परीक्षयेत् ॥ ४८ ॥

ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलं ।
तत्सर्व सिद्धयति क्षिप्रं नामत्रिशतकीर्तनात् ॥ ४९॥

आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।
विद्याप्रदं कीर्तिकरं सुखवित्वप्रदायकम् ॥ ५० ॥

सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।
सर्वाभिष्टप्रदं चैव देव्या नामशतत्रयम् ॥ ५१ ॥

एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।
एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥ ५२ ॥

भक्तस्य यद्यदिष्टं स्यात्तत्तत्यूरयते ध्रुवं ।
तस्मात्कुभोद्भवमुने कीर्तय त्वमिदम् सदा ॥ ५३ ॥

नापरं किञ्चिदपि ते बोद्धव्यं नावशिष्यते ।
इति ते कथितं स्तोत्र ललिता प्रीतिदायकम् ॥ ५४ ॥

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कहिर्चित्॥ ५६ ॥

यो ब्रूयात्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ।
इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ ५७ ॥

ललिता प्रेरितेनैव मयोक्तम् स्तोत्रमुत्तमम् ।
रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५८ ॥

सूत उवाच –
एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् ।
स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरी ॥

आनन्दलहरीमग्नरमानसः समवर्तत ॥ ५९ ।

॥ इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे
श्री हयग्रीवागस्त्यसंवादे
श्रीललितात्रिशती स्तोत्र कथनं सम्पूर्णम् ॥

 Leave a Reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)