Jun 132014
 
 June 13, 2014  Ashtakam, Ganesha Slokas  Add comments

Shree Ganesh Mangalashtakam in English

தமிழில் ஸ்ரீ கணேஷ் மங்களாஷ்டகம்

गजाननाय गाङ्गेयसहजाय सदात्मने ।
गौरीप्रिय तनूजाय गणेशायास्तु मङ्गलम् ॥ 1

नागयज्ञोपवीदाय नतविघ्नविनाशिने ।
नन्द्यादि गणनाथाय नायकायास्तु मङ्गलम् ॥ 2

इभवक्त्राय चेन्द्रादि वन्दिताय चिदात्मने ।
ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ॥ 3

सुमुखाय सुशुण्डाग्रात्क्षिप्तामृतघटाय च ।
सुरबृन्द निषेव्याय चेष्टदायास्तु मङ्गलम् ॥ 4

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।
चरणावनतानन्ततारणायास्तु मङ्गलम् ॥ 5

वक्रतुण्डाय वटवे वन्याय वरदाय च ।
विरूपाक्ष सुतायास्तु मङ्गलम् ॥ 6

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम् ॥ 7

मङ्गलं गणनाथाय मङ्गलं हरसूनने ।
मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम् ॥ 8

श्लोकाष्टकमिदं पुण्यं मङ्गलप्रद मादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥

॥ इति श्री गणेश मङ्गलाष्टकम् ॥

 

 

 Leave a Reply

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

(required)

(required)